नीति श्लोक विद्या
उद्यमेण हि सिद्धन्ति कार्याणि ना मनोरथै।
न हि सुप्तस्य सिंघस्य प्रविशति मुखे मृगाः।।
सुखार्थी त्यजेत विद्याम् विद्यार्थी त्यजेत सुखम्।
सुखार्थिना: कुतो विद्या कुतो विद्यार्थिना: सुखम्।।
काक चेष्टा, बको ध्यानं, श्वान निंद्रा तथैव च
अल्पाहारी, सदाचारी एतद विद्यार्थिन पंच लक्षणं।
करत-करत अभ्यास के जड़मति होतं सुजान।
रसरि आवत जात ते सिल पर परत निशान।।
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यते॥
अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम्।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम…॥
धन-हीनो न हीनश् च धनिकः स सुनिश्चयः।
विद्या-रत्नेन हीनो यः स हीनः सर्व-वस्तुषु।।
विद्या ददाति विनयम्, विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति, धनाद्धर्मं ततः सुखम्॥
विद्या नाम नरस्य रूपमधिकम्, प्रच्छन्नगुप्तं धनम्।
विद्या भोगकरी, यशःसुखकरी, विद्या गुरुणां गुरुः॥
विद्या बन्धुजनो विदेशगमने, विद्या परा देवता।
विद्या राजसु पूज्यते, नहि धनम्, विद्याविहीनः पशुः ॥
न चोरहार्यं, न राजहार्यं, न भ्रातृभाज्यं न च भारकारी।
व्यये कृते वर्धत एव नित्यं, विद्याधनं सर्वधनप्रधानम्॥
नहि ज्ञानेन सदृशं पवित्रं इह विद्यते।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥
This article "नीति श्लोक विद्या" is from Wikipedia. The list of its authors can be seen in its historical and/or the page Edithistory:नीति श्लोक विद्या.